|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.89. अध्यायः 089
Mahabharata - Vana Parva - Chapter Topics
लोमशेनेन्द्रवचनाद्युधिष्ठिरंप्रति पार्थस् पाशुपतादिप्राप्तिकथनपूर्वकमिनद्रसंदेशनिवेदनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-89-0x(1998)(19712)
एवं संभाषमाणे तु धौम्ये कौरवनन्दन।
लोमशः स महातेजा ऋषिस्तत्राजगाम ह ॥ 3-89-1(19713)
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते।
उपातिष्ठन्महाभागं दिवि शक्रमिवामराः ॥ 3-89-2(19714)
समभ्यर्च्य यथान्यायं धर्मपुत्रो युधिष्ठिरः।
पप्रच्छागमने हेतुमटने च प्रयोजनम् ॥ 3-89-3(19715)
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः।
उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ॥ 3-89-4(19716)
संचरन्नस्मि कौन्तेय सर्वांल्लोकान्यदृच्छया।
गतः शक्रस्य भवनं तत्रापश्यं सुरेश्वरम् ॥ 3-89-5(19717)
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम्।
शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ॥ 3-89-6(19718)
आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम्।
आह मां तत्र देवेशो गच्छ पाण्डुसुतान्प्रति ॥ 3-89-7(19719)
सोऽहमभ्यागतः क्षिप्रं दिदृक्षस्त्वां सहानुजम्।
वचनात्पुरुहूतस्य पार्थस् च महात्मनः ॥ 3-89-8(19720)
आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन।
भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु ॥ 3-89-9(19721)
यत्त्वयोक्तो महाबाहुरस्त्रार्थं भरतर्षभ।
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं विभो ॥ 3-89-10(19722)
यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागमत्।
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना ॥ 3-89-11(19723)
तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम्।
वज्रमस्त्राणि चान्यानि दण्डादीनि युधिष्ठिर ॥ 3-89-12(19724)
यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन।
अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ॥ 3-89-13(19725)
विश्वावसोस्तु तनयाद्गीतं नृत्यं च साम च।
वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ॥ 3-89-14(19726)
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमात्मवान्।
सुखं वसति बीभत्सुरनुजस्यानुजस्तव ॥ 3-89-15(19727)
यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत्।
तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे ॥ 3-89-16(19728)
भवान्मनुष्यलोकेऽपि गमिष्यति न संशयः।
ब्रूयाद्युधिष्ठिरं तत्रवचनान्मे द्विजोत्तम ॥ 3-89-17(19729)
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः।
सुरकार्यं महत्कृत्वा यदशक्यं दिवौकसैः ॥ 3-89-18(19730)
तपसाऽपि त्वमात्मानं योजय भ्रातृभिः सह।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥ 3-89-19(19731)
अहं च कर्णं जानामि यथावद्भरतर्षभ।
सत्यसन्धं महोत्साहं महावीर्यं महाबलम् ॥ 3-89-20(19732)
महाहवेष्वप्रतिमं महायुद्धविशारदम्।
महाधनुर्धरं वीरं महास्त्रं वरवर्णिनम् ॥ 3-89-21(19733)
महेश्वरसुतप्रख्यमादित्यतनयं प्रभुम्।
तथाऽर्जुनमतिस्कन्धं सहजोल्वणपौरुणम् ॥ 3-89-22(19734)
न स पार्तस्य संग्रामे कलामर्हति षोडशीम् ॥ 3-89-23(19735)
यच्चापि ते भयं कर्णान्मनसिस्थमरिंदम।
तच्चाप्यपहरिष्यामि सव्यसाचिन्युपागते ॥ 3-89-24(19736)
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति।
स महर्षिर्लोमशस्ते कथयिष्यत्यसंशयम् ॥ 3-89-25(19737)
यच्च किंचित्तपोयुक्तं फलं तीर्थेषु भारत।
ब्रह्मर्षिरेष ब्रूयात्ते न तच्छ्रद्धेयमन्यथा ॥ 3-89-26(19738)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-89-12 प्रायश्चित्तं अस्त्राग्निना निरपराधानां दाहे यो दोषस्तस् शोधनम्। मङ्गलं दग्धानामेवारामादीनां पुनर्विकसनम्। वज्रं वज्रवदप्रतीकार्यं रौद्रमेव ॥ 3-89-14 गीतं लौकिकं गानम्। साम ऋक्षु गानम् ॥ 3-89-18 सुरकार्यं निवातकवचादीनां वधः। कृतार्थः क्षिप्रमर्जुन इति क. थ. पाठः ॥ 3-89-20 रसत्यसन्धं सत्यप्रतिज्ञम् ॥ 3-89-21 वरवर्णिनं अतिसुन्दरम् ॥ 3-89-22 महेश्वरसुतप्रख्यं स्कन्दतुल्यम्। अतित्कन्धं उन्नतांसम् ॥ 3-89-24 अपहरिष्यामि कवचकुण्डलापहरणेन ॥ 3-89-26 तत् श्रद्धेयं नत्वन्यथा ग्रहीतव्यमित्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|